You are currently viewing श्री पंचमुखी हनुमान कवच | Shree Panchmukhi Hanuman Kavach

श्री पंचमुखी हनुमान कवच | Shree Panchmukhi Hanuman Kavach

श्री पंचमुखी हनुमान कवच | Shree Panchmukhi Hanuman Kavach

अथ ध्यानं प्रवक्ष्यामि।श्रुणु सर्वांगसुंदर ।
यत्कृतं देवदेवेन ध्यानं हनुमत्: प्रियम् ॥ 1

पंचकक्त्रं महाभीमं त्रिपंचनयनैर्युतम् ।
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिध्दिदम् ॥ 2

पूर्वतु वानरं वक्त्रं कोटिसूर्यसमप्रभम् ।
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम् ॥ 3

अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् ।
अत्युग्रतेजोवपुष्पंभीषणम भयनाशनम् ॥ 4

पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम् ।
सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥ 5

उत्तरं सौकरं वक्त्रं कृष्णं दिप्तं नभोपमम् ।
पातालसिंहवेतालज्वररोगादिकृन्तनम् ॥ 6

ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् ।
येन वक्त्रेण विप्रेन्द्र तारकाख्यमं महासुरम् ॥ 7

जघानशरणं तस्यात्सर्वशत्रुहरं परम् ।
ध्यात्वा पंचमुखं रुद्रं हनुमन्तं दयानिधिम् ॥ 8

खड्गं त्रिशुलं खट्वांगं पाशमंकुशपर्वतम् ।
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुं ॥ 9

भिन्दिपालं ज्ञानमुद्रा दशभिर्मुनिपुंगवम् ।
एतान्यायुधजालानि धारयन्तं भजाम्यहम् ॥ 10

प्रेतासनोपविष्टं तं सर्वाभरण्भुषितम् ।
दिव्यमाल्याम्बरधरं दिव्यगन्धानु लेपनम सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम् ॥ 11

पंचास्यमच्युतमनेकविचित्रवर्णवक्त्रं शशांकशिखरं कपिराजवर्यम् ।
पीताम्बरादिमुकुटै रूप शोभितांगं पिंगाक्षमाद्यमनिशं मनसा स्मरामि ॥ 12

मर्कतेशं महोत्राहं सर्वशत्रुहरं परम् ।
शत्रुं संहर मां रक्ष श्री मन्नपदमुध्दर ॥ 13

ओम हरिमर्कट मर्केत मंत्रमिदं परिलिख्यति लिख्यति वामतले ।
यदि नश्यति नश्यति शत्रुकुलं यदि मुंच्यति मुंच्यति वामलता ॥ 14

ॐ हरिमर्कटाय स्वाहा
ॐ नमो भगवते पंचवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा।
ॐ नमो भगवते पंचवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाया।
ॐ नमो भगवते पंचवदनाय पश्चिममुखाय गरूडाननाय सकलविषहराय स्वाहा।
ॐ नमो भगवते पंचवदनाय उत्तरमुखाय आदिवराहाय सकलसंपत्कराय स्वाहा।
ॐ नमो भगवते पंचवदनाय उर्ध्वमुखाय हयग्रीवाय सकलजनवशकराय स्वाहा।
ॐ अस्यश्री पंचमुखी हनुमत्कवच स्तोत्रमन्त्रस्य श्रीरामचन्द्र ऋषिरनुष्टुपछन्दः श्रीसीतारामचन्द्रो देवता हनुमानति बीजं वायुदेवता इति शक्तिः श्रीरामचन्द्रावर प्रसादसिद्ध्यर्थे जपे विनियोगः | इति ऋष्यादिकं विन्यसेत् ।

अथ करन्यासः

ओं अञ्जनीसुताय अङ्गुष्ठाभ्यां नमः ।
ओं रुद्रमूर्तये तर्जनीभ्यां नमः ।
ओं वायुपुत्राय मध्यमाभ्यां नमः ।
ओं अग्निगर्भाय अनामिकाभ्यां नमः ।
ओं रामदूताय कनिष्ठिकाभ्यां नमः ।
ओं पञ्चमुखहनुमते करतलकरपृष्ठाभ्यां नमः ।

अथ अङ्गन्यासः

ओं अञ्जनीसुताय हृदयाय नमः ।
ओं रुद्रमूर्तये शिरसे स्वाहा ।
ओं वायुपुत्राय शिखायै वषट् ।
ओं अग्निगर्भाय कवचाय हुम् ।
ओं रामदूताय नेत्रत्रयाय वौषट् ।
ओं पञ्चमुखहनुमते अस्त्राय फट् ।
पञ्चमुखहनुमते स्वाहा इति दिग्बन्धः ।

अथ ध्यानम्

वन्दे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं
दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा ।
हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रिं हलं
खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम् ।

अथ मन्त्रः

ओं श्रीरामदूताय आञ्जनेयाय वायुपुत्राय महाबलपराक्रमाय सीतादुःखनिवारणाय लङ्कादहनकारणाय महाबलप्रचण्डाय फाल्गुनसखाय कोलाहलसकलब्रह्माण्डविश्वरूपाय
सप्तसमुद्रनिर्लङ्घनाय पिङ्गलनयनाय अमितविक्रमाय सूर्यबिम्बफलसेवनाय दुष्टनिवारणाय दृष्टिनिरालङ्कृताय सञ्जीविनीसञ्जीविताङ्गद-लक्ष्मणमहाकपिसैन्यप्राणदाय
दशकण्ठविध्वंसनाय रामेष्टाय महाफाल्गुनसखाय सीतासहितरामवरप्रदाय षट्प्रयोगागमपञ्चमुखवीरहनुमन्मन्त्रजपे विनियोगः ।

ओं हरिमर्कटमर्कटाय बम्बम्बम्बम्बं वौषट् स्वाहा ।
ओं हरिमर्कटमर्कटाय फम्फम्फम्फम्फं फट् स्वाहा ।
ओं हरिमर्कटमर्कटाय खेङ्खेङ्खेङ्खेङ्खें मारणाय स्वाहा ।
ओं हरिमर्कटमर्कटाय लुंलुंलुंलुंलुं आकर्षितसकलसम्पत्कराय स्वाहा ।
ओं हरिमर्कटमर्कटाय धन्धन्धन्धन्धं शत्रुस्तम्भनाय स्वाहा ।

ओं टण्टण्टण्टण्टं कूर्ममूर्तये पञ्चमुखवीरहनुमते परयन्त्र परतन्त्रोच्चाटनाय स्वाहा ।
ओं कङ्खङ्गङ्घंङं चञ्छञ्जञ्झंञं टण्ठण्डण्ढंणं तन्थन्दन्धंनं पम्फम्बम्भंमं यंरंलंवं शंषंसंहं लङ्क्षं स्वाहा ।
इति दिग्बन्धः ।

ओं पूर्वकपिमुखाय पञ्चमुखहनुमते टण्टण्टण्टण्टं सकलशत्रुसंहरणाय स्वाहा ।
ओं दक्षिणमुखाय पञ्चमुखहनुमते करालवदनाय नरसिंहाय ओं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकलभूतप्रेतदमनाय स्वाहा ।
ओं पश्चिममुखाय गरुडाननाय पञ्चमुखहनुमते मंमंमंमंमं सकलविषहराय स्वाहा ।
ओं उत्तरमुखाय आदिवराहाय लंलंलंलंलं नृसिंहाय नीलकण्ठमूर्तये पञ्चमुखहनुमते स्वाहा ।
ओं ऊर्ध्वमुखाय हयग्रीवाय रुंरुंरुंरुंरुं रुद्रमूर्तये सकलप्रयोजननिर्वाहकाय स्वाहा ।

ओं अञ्जनीसुताय वायुपुत्राय महाबलाय सीताशोकनिवारणाय श्रीरामचन्द्रकृपापादुकाय महावीर्यप्रमथनाय ब्रह्माण्डनाथाय कामदाय पञ्चमुखवीरहनुमते स्वाहा ।

भूतप्रेतपिशाचब्रह्मराक्षस शाकिनीडाकिन्यन्तरिक्षग्रह परयन्त्र परतन्त्रोच्चटनाय स्वाहा ।
सकलप्रयोजननिर्वाहकाय पञ्चमुखवीरहनुमते श्रीरामचन्द्रवरप्रसादाय जञ्जञ्जञ्जञ्जं स्वाहा ।

इदं कवचं पठित्वा तु महाकवचं पठेन्नरः ।
एकवारं जपेत् स्तोत्रम् सर्वशत्रुनिवारणम् ॥ 15

द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् ।
त्रिवारं च पठेन्नित्यं सर्वसम्पत्करं शुभम् ॥ 16

चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् ।
पञ्चवारं पठेन्नित्यं सर्वलोकवशङ्करम् ॥ 17

षड्वारं च पठेन्नित्यं सर्वदेववशङ्करम् ।
सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ॥ 18

अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् ।
नववारं पठेन्नित्यं राजभोगमवाप्नुयात् ॥ 19

दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् ।
रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्धृवम् ॥ 20

निर्बलो रोगयुक्तश्च महाव्याध्यादिपीडितः ।
कवचस्मरणेनैव महाबलमवाप्नुयात् ॥ 21

इति सुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं श्री पञ्चमुखहनुमत्कवचम् ।

॥ श्री पंचमुखी हनुमान कवच समाप्तं ॥

Share this post (शेयर करें)