You are currently viewing माँ काली कवच | Ma Kali Kavach

माँ काली कवच | Ma Kali Kavach

माँ काली कवच | Ma Kali Kavach

॥ नारद उवाच ॥

कवचं श्रोतुमिच्छामि तां च विद्यां दशाक्षरीम् ।
नाथ त्वत्तो हि सर्वज्ञ भद्रकाल्याश्च सांप्रतम् ॥ 1 ॥

॥ नारायण उवाच ॥

श्रुणु नारद वक्ष्यामि महाविद्यां दशाक्षरीम् ।
गोपनीयं च कवचं त्रिषु लोकेषु दुर्लभम् ॥ २ ॥

ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहेति च दशाक्षरीम् ।
दुर्वासा हि ददौ राज्ञे पुष्करे सुर्यपर्वणि ॥ ३ ॥

दशलक्षजपेनैव मन्त्रसिद्धिः कृता पुरा ।
पञ्चलक्षजपेनैव पठन् कवचमुत्तमम् ॥ ४ ॥

बभूव सिद्धकवचोSप्ययोध्यामाजगाम सः ।
कृत्स्रां हि पृथिवीं जिग्ये कवचस्य प्रसादतः ॥ ५ ॥

॥ नारद उवाच ॥

श्रुता दशाक्षरी विद्या त्रिषु लोकेषु दुर्लभा ।
अधुना श्रोतुमिच्छामि कवचं ब्रुहि मे प्रभो ॥ ६ ॥

॥ नारायण उवाच ॥

श्रुणु वक्ष्यामि विप्रेन्द्र कवचं परामाद्भुतम् ।
नारायणेन यद् दत्तं कृपया शूलिने पुरा ॥ ७ ॥

त्रिपुरस्य वधे घोरे शिवस्य विजयाय च ।
तदेव शूलिना दत्तं पुरा दुर्वाससे मुने ॥ ८ ॥

दुर्वाससा च यद् दत्तं सुचन्द्राय महात्मने ।
अतिगुह्यतरं तत्त्वं सर्वमन्त्रौघविग्रहम् ॥ ९ ॥

ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहा मे पातु मस्तकम् ।
क्लीं कपालं सदा पातु ह्रीं ह्रीं ह्रींमिति लोचने ॥ १० ॥

ॐ ह्रीं त्रिलोचने स्वाहा नासिकां मे सदावतु ।
क्लीं कालिके रक्ष रक्ष स्वाहा दन्तं सदावतु ॥ ११ ॥

ह्रीं भद्रकालिके स्वाहा पातु मेsधरयुग्मकम् ।
ॐ ह्रीं ह्रीं क्लीं कालिकायै स्वाहा कण्ठं सदावतु ॥ १२ ॥

ॐ ह्रीं कालिकायै स्वाहा कर्णयुग्मं सदावतु ।
ॐ क्रीं क्रीं क्लीं काल्यै स्वाहा स्कन्धं पातु सदा मम ॥ १३ ॥

ॐ क्रीं भद्रकाल्यै स्वाहा मम वक्षः सदावतु ।
ॐ क्रीं कालिकायै स्वाहा मम नाभिं सदावतु ॥ १४ ॥

ॐ ह्रीं कालिकायै स्वाहा मम पृष्टं सदावतु ।
रक्तबीजविनाशिन्यै स्वाहा हस्तौ सदावतु ॥ १५ ॥

ॐ ह्रीं क्लीं मुण्डमालिन्यै स्वाहा पादौ सदावतु ।
ॐ ह्रीं चामुण्डायै स्वाहा सर्वाङ्गं मे सदावतु ॥ १६ ॥

प्राच्यां पातु महाकाली आग्नेय्यां रक्तदन्तिका ।
दक्षिणे पातु चामुण्डा नैऋत्यां पातु कालिका ॥ १७ ॥

श्यामा च वारुणे पातु वायव्यां पातु चण्डिका ।
उत्तरे विकटास्या च ऐशान्यां साट्टहासिनि ॥ १८ ॥

ऊर्ध्वं पातु लोलजिह्वा मायाद्या पात्वधः सदा ।
जले स्थले चान्तरिक्षे पातु विश्वप्रसूः सदा ॥ १९ ॥

इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ।
सर्वेषां कवचानां च सारभूतं परात्परम् ॥ २० ॥

सप्तद्वीपेश्वरो राजा सुचन्द्रोSस्य प्रसादतः ।
कवचस्य प्रसादेन मान्धाता पृथिवीपतिः ॥ २१ ॥

प्रचेता लोमशश्चैव यतः सिद्धो बभूव ह ।
यतो हि योगिनां श्रेष्टः सौभरिः पिप्पलायनः ॥ २२ ॥

यदि स्यात् सिद्धकवचः सर्वसिद्धीश्वरो भवेत् ।
महादानानि सर्वाणि तपांसि च व्रतानि च ।
निश्चितं कवचस्यास्य कलां नार्हन्ति षोडशीम् ॥ २३ ॥

इदं कवचमज्ञात्वा भजेत् कालीं जगत्प्रसूम् ।
शतलक्षप्रजप्तोSपि न मन्त्रः सिद्धिदायकः ॥ २४ ॥

॥ इति श्रीब्रह्मवैवर्ते कालीकवचं संपूर्णम् ॥

Share this post (शेयर करें)